श्रीसमर्थाथर्वशीर्षम्

अथ श्री अक्कलकोटीस्वामीसमर्थाथर्वशीर्षम् ।
अथ ध्यानम् ।
ॐ ध्यायेच्छान्तं प्रशान्तं कमलनयनं योगिराजं दयालुं
     स्वामी मुद्रासनस्थं विमलतनुयुतं मन्दहास्यं कृपालम् ।
दृष्टिक्षेपोहि यस्य हरति स्मरणात् पापजालौघ सङ्घं
     भक्तानां स्मर्तृगामी जयति सविदधत् केवलानन्द कन्दम् ॥ १॥

। हरिः ॐ ।
नमः श्रीस्वामीसमर्थाय परमहंसाय दिव्यरूपधारिणे ।
नमः श्रीपाद श्रियावल्लभावतारधारिणे ।
नमः श्रीमन्नरसिंह सरस्वत्यावतारधारिणे ।
नमः कर्दलीवनवासिने । नमोऽवधूताय स्वेच्छाचारिणे ।
नमः कैवल्यानन्दसच्चिदानन्दस्वरूपिणे ॥ २॥

त्वं परं तत्त्वमयः । तत्त्वमस्यादि महावाक्यैः सम्बोधितः ।
त्वं पृथिव्यादि पञ्चमहाभुतः स्वरूपः ।
त्वं अष्टधा प्रकृति पुरूषात्मकः । त्वं चराचरः साक्षीः ।
त्वं ज्ञप्तिमयस्त्वं पूर्णानन्दमयः ।
त्वं मूलाधारादि षट्चक्रस्थित दैवतात्मकः ॥ ३॥

सर्वं जगदेतत्त्वत्तो जायते । त्वयि विद्यते । त्वयि लीयते ।
त्वामहं ध्यायामि नित्यम् ॥ ४॥

पाहिमां त्वम् । प्राच्यां पाहि । प्रतीच्यां पाहि । दक्षिणातात् पाहि ।
उत्तरस्यां पाहि । उर्ध्वात् पाहि । अधस्तात् पाहि । सर्वतः पाहि पाहि माम् ॥

भयेभ्यःस्त्राहि माम् । संसारमहाभयात् मामुद्धर ।
शरणागतोऽस्मि त्वाम् ॥ ५॥
Scroll to Top